(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.34. अध्यायः 034
Mahabharata - Shanti Parva - Chapter Topics
व्यासेन युधिष्ठिरंप्रति पापानां प्रायश्चित्तादिकथनम्॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

व्यास उवाच। 12-34-0x(5405)(66099)
तपसा कर्मणा चैव प्रदानेन च भारत।
पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते॥ 12-34-1(66100)
एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत्।
कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः॥ 12-34-2(66101)
अनसूयुरधः शायी कर्म लोके प्रकाशयन्।
पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते॥ 12-34-3(66102)
लक्ष्यः शस्त्रभृतां वा स्याद्विदुषामिच्छयाऽऽत्मनः।
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः॥ 12-34-4(66103)
जपन्वाऽन्यतमं वेदं योजनानां शतं व्रजेत्।
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत्॥ 12-34-5(66104)
धनं वा जीवनायालं गृहं वा सपरिच्छदम्।
मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च॥ 12-34-6(66105)
षङ्गिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः।
मासेमासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते॥ 12-34-7(66106)
संवत्सरेण मासाशी पूयते नात्र संशयः।
तथैवोपवसन्राजन्स्वल्पेनापि प्रपूयते॥ 12-34-8(66107)
क्रतुना चाश्वमेधेन पूयते नात्र संशयः।
ये चाप्यवभृथस्नाताः केचिदेवंविधा नराः।
ते सर्वे धूतपाप्मानो भवन्तीति परा श्रुतिः॥ 12-34-9(66108)
ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया॥ 12-34-10(66109)
गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयेत्।
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च॥ 12-34-11(66110)
कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम्।
दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते॥ 12-34-12(66111)
गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये।
साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्विषात्॥ 12-34-13(66112)
शतं वै यस्तु काम्भोजान्ब्राह्मणेभ्यः प्रयच्छति।
नियतेभ्यो महीपाल स च पापात्प्रमुच्यते॥ 12-34-14(66113)
मनोरथं तु यो दद्यादेकस्मा अपि भारत।
न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते॥ 12-34-15(66114)
सुरापानं सकृत्कृत्वा योऽग्निवर्णां सुरां पिबेत्।
स पावयत्यथात्मानमिह लोके परत्र च॥ 12-34-16(66115)
मरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन्।
महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः॥ 12-34-17(66116)
बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः।
समितिं ब्राह्मणो गच्छेदिति वै ब्रह्मणः श्रुतिः॥ 12-34-18(66117)
भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः।
पुनर्न च पिबेद्राजन्संस्कृतः स च शुध्यति॥ 12-34-19(66118)
गुरुतल्पी शिलां तप्तामायसीमभिसंविशेत्।
अवकृत्यात्मनः शेफं प्रव्रजेदूर्ध्वदर्शनः॥ 12-34-20(66119)
शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात्।
कर्मभ्यो विप्रमुच्यन्ते यताः संवत्सरं स्त्रियः॥ 12-34-21(66120)
महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु।
गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात्॥ 12-34-22(66121)
अनृतेनोपवर्ती चेत्प्रतिरोद्धा गुरोस्तथा।
उपाहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते॥ 12-34-23(66122)
अवकीर्णनिमित्तं तु ब्रह्महत्याव्रतं चरेत्।
गोचर्मवासाः षण्मासांस्तथा मुच्येत किल्बिषात्॥ 12-34-24(66123)
परदारोपसेवी तु परस्यापहरन्वसु।
संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात्॥ 12-34-25(66124)
धनं तु यस्यापहरेत्तस्मै दद्यात्समं वसु।
विविधेनाभ्युपायेन तदा मुच्येत किल्बिषात्॥ 12-34-26(66125)
कृच्छ्राद्द्वादशरात्रेण संयतात्मा व्रते स्थितः।
परिवेत्ता भवेत्पूतः परिवित्तिस्तथैव च॥ 12-34-27(66126)
निवेश्यं तु पुनस्तेन भवेत्तारयता पितॄन्।
न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते॥ 12-34-28(66127)
भोजनं ह्यन्तराशुद्धं चातुर्मास्ये विधीयते।
स्त्रियस्तेन प्रशुध्यन्ति इति धर्मविदो विदुः॥ 12-34-29(66128)
स्त्रियस्त्वाशङ्किताः पापे नोपगम्या विजानता।
रजसा ता विशुध्यन्ते भस्मना भाजनं यथा॥ 12-34-30(66129)
पादजोच्छिष्टकांस्यं यद्गवा घ्रातमथापि वा।
गण्डूषोच्छिष्टमपि वा विशुध्येद्दशभिस्तु तत्॥ 12-34-31(66130)
चतुष्पात्सकलो धर्मो ब्राह्मणस्य विधीयते।
पादोन इष्टो राजन्ये तथा धर्मो विधीयते॥ 12-34-32(66131)
तथा वैश्ये च शूद्रे च पादः पादो विधीयते।
विद्यादेवंविधनैषां गुरुलाघवनिश्चयम्॥ 12-34-33(66132)
तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्वोत्तरान्बहून्।
त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयन्नरः॥ 12-34-34(66133)
अगम्यागमने राजन्प्रायश्चित्तं विधीयते।
आर्द्रवस्त्रेण षण्मासान्विभाव्यं भस्मशायिना॥ 12-34-35(66134)
एवमेव तु सर्वेषामकार्याणां विधिर्भवेत्।
ब्रह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः॥ 12-34-36(66135)
सावित्रीमप्यधीयानः शुचौ देशे मिताशनः।
अहिंसो मन्दकं जल्पान्मुच्यते सर्वकिल्बिषात्॥ 12-34-37(66136)
अहः सु सततं तिष्ठेदभ्याकाशं निशाः स्वपन्।
त्रिरह्नि त्रिर्निशायां च सवासा जलमाविशेत्॥ 12-34-38(66137)
स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्ब्रतान्वितः।
पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः॥ 12-34-39(66138)
शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकम्।
अतिरिच्येत्तयोर्यस्तु तत्कर्ता लभते फलम्॥ 12-34-40(66139)
तस्माद्दानेन तपसा कर्मणा च फलं शुभम्।
वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान्॥ 12-34-41(66140)
कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम्।
दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात्॥ 12-34-42(66141)
अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम्।
महापातकवर्जं तु प्रायश्चित्तं विधीयते॥ 12-34-43(66142)
भक्ष्याभक्ष्येषु चान्येषु वाच्यावाच्ये तथैव च।
अज्ञानज्ञानयो राजन्विहितान्यनुजानतः॥ 12-34-44(66143)
जानता तु कृतं पापं गुरु सर्वं भवत्युत।
अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते॥ 12-34-45(66144)
शक्यते विधिना पापं यथोक्तेन व्यपोहितुम्।
आस्तिके श्रद्दधाने च विधिरेष विधीयते॥ 12-34-46(66145)
नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन।
दम्भद्वेषप्रधानेषु विधिरेष न शिष्यते॥ 12-34-47(66146)
शिष्टाचारश्च दिष्टश्च धर्मो धर्मभूतां वर।
सेवितव्यो नरव्याघ्र प्रेत्येह च हितेप्सुना॥ 12-34-48(66147)
स राजन्मोक्ष्यते पापात्तेन पूर्णेन हेतुना।
त्राणार्थं वा वधे तेषामथवा नृपकर्मणा॥ 12-34-49(66148)
अथवा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि।
मा चैवानार्यजुष्टेन मृत्युना निधनं गमः॥ 12-34-50(66149)
वैशम्पायन उवाच। 12-34-51x(5406)
एवमुक्तो भगवता धर्मराजो युधिष्ठिरः।
चिन्तयित्वा मुहूर्तेन प्रत्युवाच तपोधनम्॥ ॥ 12-34-51(66150)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुस्त्रिंशोऽध्यायः॥ 34॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-34-1 तपसा कच्छ्रचान्द्रायणादिना। कर्मणा यज्ञादिना पुनारिशोधयति॥ 12-34-3 कर्म ब्रह्महत्याम्॥ 12-34-5 अवाकूशिराः यं कंचिद्वेदं जपन् योजनानां शतं त्रिर्व्रजेत् शतत्रययोजनं पदचारेण तीर्थयात्रायां वेदं जपन्मुच्यत इत्यर्थः॥ 12-34-7 कच्छ्रभोजी कृच्छ्ररीत्या भुञ्जानः॥ 12-34-17 मरुप्रपातं निर्जलदेशे पर्वताग्रात्पतनम्। महाप्रस्थानं केदारे हिमवदाहोरणम्॥ 12-34-18 निष्पापः सन् ब्राह्मणसभामारोढुं योग्यो भवतीत्यर्थः॥ 12-34-19 उदपानं शिवं कुर्यात्सुरामिति ड. थ. पाठः॥ 12-34-21 यताः त्यक्ताहारविहाराः॥ 12-34-22 महाव्रतं मासमात्रं जलस्यापि त्यागः॥ 12-34-24 खरचर्मवासाः षण्मासानिति ड.थ.पाठः॥ 12-34-28 तेन कनिष्ठेन निवेश्यं विवाहान्तरं कर्तव्यम्॥ 12-34-29 अन्तराभोजनं धारणापारणव्रतेन मासचतुष्ट्यकृतेन शुध्यन्ति महापापयोगे। भाजनं त्वृतुनाशुद्धं चातुर्मास्यं विधीयते इति थ. पाठः। भाजनं पूतिना शुद्धमिति ड. पाठः॥ 12-34-31 शूद्रस्य उच्छिष्टं कांस्यं पात्रम्। दशभिः शोधनैः शुद्ध्यति। तानि च पञ्चगव्येन मृत्तोयैर्भस्मनाम्लेन वह्निनेति॥ 12-34-33 विधीयते पादः पादोऽपकृष्ट इत्यर्थः। वैश्यस्य द्विपादः। शूद्रस्य पादमात्रः। धर्मः शौचादिः॥ 12-34-36 दृष्टान्तभूतो य आगमस्तत्रोक्तैर्हेतुभिर्यावदेन इत्याद्यैः॥ 12-34-38 तिष्ठेदित्युपवेशनादेर्व्यावृत्तिः। अभ्याकाशं निरावरणे स्थण़्डिलादौ। अनुरूपं हि पापस्य अभ्याकाशमिति ट. पाठः॥ 12-34-40 यत्र पुण्ये पापे वातिरिच्येत् योऽधिको भवति स इतरेणेतरदभिभूयातिरिक्तस्य फलं भुङ्क्त इत्यर्थः। अतिरिच्येत यो यत्र इति झ. पाठः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.